#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00011 Uniform title: āṣṭaprakaraṇa tattvasaṃgraha Main title: āṣṭaprakaraṇam tattvasaṃgrahaḥ Secondary title: tatvaprakaśika-tatvasaṃgraha-tatvatrayanirṇayāḥ savyākhyāḥ aghoraśivācarya Author : sadyojyoti Commentator : aghoraśiva Editor : kṛṣṇa śāstrī Description: E-text of the tattvasaṃgrahaḥ from tatvaprakasika-tatvasaṃgraha-tatvatrayanirṇayāḥ savyākhyāḥ aghoraśivācarya in the devakottai series. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: December 12, 2007 Publisher : śivāgamasiddhāntaparipālanasaṅgham Publication year : 1925 Publication city : Publication country : India #################################################### तत्त्वसंग्रहः सद्योज्योतिःशिवाचार्यप्रणीतः अघोरशिवाचार्यकृतया टीकया सहितः शिवत्वं निर्मलं यस्य शश्वद्विश्वविलक्षणम् | तमहं सर्वदं वन्दे श्रीमदभ्रसभापतिम् || पदवाक्यप्रमाणज्ञः सद्योज्योतिर्गुरूत्तमः | साक्षादिव शिवोऽस्माभिरलक्ष्यमतिवैभवः || तत्त्वसंग्रहचन्द्रस्य प्रकाशाय वितानिता | श्रीनारायणकण्ठेन बृहट्टिका शरन्निशा || तथापि खिन्नबुद्धीनां बृहट्टीकाप्रविस्तरे | हिताय लघुटीकाऽत्र मयेयमुपरच्यते || तत्र तावदत्रभवानाचार्यः परमशिवप्रणामपूर्वकं प्रकरणकरणं प्रतिजानीते- चिदचिन्नेतारमजं सर्वज्ञं शङ्करं प्रणम्याहम् | मन्दमतिबोधहेतोस्तत्त्वानि वदामि संक्षेपात् || १ || चितां बद्धात्मनाम्, अचितां च बिन्दुमायातत्कार्याणां नेतारम् अधिष्ठितारम्, साक्षात्परम्परया च शुद्धाशुद्धजगदुपादानेनात्मनां यथार्हं शुद्धाशुद्धभोगप्रदमित्यर्थः | अतश्च जगतः सन्निवेशादिमत्त्वेन कार्यत्वात् तत्कर्तृतयेश्वरसिद्धिरिति भावः | एतेन प्रकृतिपुरुषकर्मेश्वरवादिनोऽपि निरस्ताः, प्रकृतिकर्मणोरचेतनत्वात्, पुरुषस्य च समलत्वेनास्ववशत्वात् | अजं नित्यनिर्मलत्वात् | शरीरादियोगात्मनापि जन्मना रहितम् | अनेन चास्य नित्यत्वं सिद्धम् | अस्य हि जगत्कर्तुरनित्यत्वे जन्मादियोगित्वे वाऽचेतनत्वमनवस्थानं च स्यात् | किञ्च, सर्वज्ञं मलरहितत्वात् सर्वकर्तृत्वाच्च | इदं चात्राकूतम्- नास्य ज्ञानं नैयायिकादीनामिव मनःसंयोगाद्यपेक्षम्, अपि तु ज्ञानं स्वभाव एव | तस्य च ज्ञेयकार्याद्युपाधिभेदादौपचारिकमानन्त्यम् | यच्छ्रूयते- तदेकं विषयानन्त्याद् भेदानन्त्यं प्रपद्यते | कर्तृत्वं तदभिन्नत्वात् तद्वदेवोपचारतः || इति | (मृ० वि० ५|१७) शं सुखम् अप्रेर्यतारूपं सर्वज्ञत्वसर्वकर्तृत्वात्मकं स्वसाम्यमात्मनां करोतीति शङ्करः | अनेन चास्य मोक्षप्रदत्वमाह, लक्ष्यपदं चैतत् | तमेवंभूतं भगवन्तं प्रणम्य कायवाङ्मनोभिः प्रह्वीभूय तत्त्वानि पृथिव्यादीनि संक्षेपाद् वदामि | तत्त्वलक्षणमस्याभिधेयमित्यर्थः | किमर्थमस्य प्रारम्भोऽत आह- मन्दमतीति | अयमाशयः- मतङ्गाद्युक्तस्य तत्त्वलक्षणस्यातिविस्तृतत्वान्मन्दमतीनां तदवधारणमशक्यम्, ततस्तेषां संक्षेपेण तत्त्वबोधार्थमस्यारम्भ इति | तत्त्वज्ञानस्य परम्परया परापरमोक्षसाधनत्वात् परमपुरुषार्थात्मकं प्रयोजनमप्यत्र सूचितम् | ततश्च तत्त्वज्ञानप्रकरणयोर्ज्ञाप्यज्ञापकलक्षणस्तत्त्वज्ञान-मोक्षयोरुपायोपेयलक्षणश्च संबन्धः सिद्धः | गुरुसंप्रदायात्मकमपि संबन्धं वक्ष्यति- भगवानुग्रज्योतिः सर्वज्ञोऽयमनुजग्राह इति | अनुग्रहस्योपलक्षणत्वात् परमशिवात् प्रभृति आत्मान्तमविच्छिन्नशास्त्रसंप्रदायतः सिद्धान्तार्थः प्रतिष्ठित इति भावः || १ || इत्थं तत्त्वव्याख्यां प्रतिज्ञाय व्युत्क्रमेणोपनेयोऽसौ शिवाय गमनं प्रति इति श्रीमत्स्वायंभुवश्रुतेस्तेषां च संहारक्रमेणैव दीक्षायां शुद्धिरिति सूचयन् संहारक्रमेणैव पञ्चभूतानि तावदाह- क्षितिजलशिखिपवनाम्बरभूतान्येषां क्रमेण वृत्तानि | धारणसंग्रहपाकव्यूहो दानं च तदवकाशस्य || २ || क्षितिजलशिखिपवनाम्बराण्येव भूतानीत्यर्थः | एषां च पृथिव्यादीनां धारणादिभिः कार्यैः सिद्धिरित्याह- एषां क्रमेणेति | तत्र संग्रहोऽवष्टम्भः, व्यूहोऽवयवसंघट्टनम्, अवकाशस्य आस्पदस्य दानमाकाशवृत्तिः | ततो अवकाशदानात्मना कार्येण आकाशसिद्धेस्तदभाववादिनश्चार्वाकास्तत्प्रत्यक्षवादिनो मीमांसकाश्च प्रतिक्षिप्ताः | न चास्य नैयायिकादिभिरिव नित्यत्वमिष्यते, वक्ष्यमाणवत् तन्मात्राकार्यत्वाद् भुवनाधारत्वश्रुतेश्च व्यूहोऽपि वायुकार्याणामुपलक्षणम् | यदाहुः- स्पर्शशब्दधृतिकम्पलिङ्गो वायुः इति | किञ्च- गन्धो रसोऽथ रूपं स्पर्शः शब्दो महीगुणाः पञ्च | तोयादीनामेते पूर्वं पूर्वं विहाय परिपाट्या || तदुक्तं मृगेन्द्रे- इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये || अशीतोष्णो महीवायवोः शीतोष्णौ वारितेजसोः | भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा || रूपं त्रिषु रसोऽम्भस्सु मधुरः षड्विधः क्षितौ | गन्धः क्षितावसुरभिः सुरभिश्च मतो बुधैः || (वि० १२|२७- २९) इति | अत एवाश्रयादन्यत्रोपलब्धेराकाशैकगुणः शब्द इति यद्वैशेषिकादिभिरुक्तम्, यदयुक्तम्, तस्य हेतोः प्रत्यक्षागमबाधितत्वेन कालात्ययापदिष्टत्वात् | तथाहि- प्रत्यक्षेणाकाशे प्रतिशब्दः श्रूयते, वायौ शकशकादिः, अग्नौ धमधमादिः, जले छलछलादिः, पृथिव्यां कडकडादिः | किञ्च, भेर्याद्याश्रयेष्वपि शब्दा उपलभ्यन्त इत्यादि विस्तरेणोक्तमस्माभिः मृगेन्द्रवृत्तिदीपिकायामिति तत एवावधार्यम् || २ || तेषां च भूतानामस्मदादिबाह्येन्द्रियपरिच्छेद्यगुणत्वाद् घटादिवत् कारणपूर्वकत्वसिद्धेस्तत्कारणं तन्मात्रपञ्चकं सिद्धमित्याह- तद्भूतसमानगुणं कारणमापूरकं च तस्यैव | तन्मात्रं भूतस्य ह्ययं विशेषो विशेषरहितं तत् || ३ || तद्भूतसमानगुणं तन्मात्रं तस्य भूतस्य कारणमुपादानमापूरकं च पोषकं च भवतीति शेषः | यदाहुः- अकृतस्य करणं कृतस्य परिवर्धनं च प्रकृतिकर्म इति | ततश्च गन्धादिपञ्चगुणात्मकं गन्धतन्मात्रं भूमेः कारणम्, रसादिचतुर्गुणरूपं तु रसतन्मात्रं जलस्येत्येवमन्यत् स्पष्टम् | अनेनैतेषां परमाणुरूपतामभिदधाना नैयायिकादयः प्रतिक्षिप्ताः | तेषामचैतन्यत्वे सत्यनेकत्वाद् मूर्तत्वाच्च घटादिवत् पांश्वादिवद्वा कार्यत्वाव्यभिचारात् | ततश्च तन्मात्रादिद्वारेण मायैव परमकारणमिति वक्ष्यामः | यद्येवं समानगुणत्वाद् भूततन्मात्रयोः को विशेषोऽत आह- तन्मात्रं भूतस्येति | यथाहि पृथिव्यादिभूतगता गन्धादयो गुणाः प्रोक्तवद्विशिष्टा उपलभ्यन्ते, नैवं तत्कारणेषु तन्मात्रेषु | ततश्च सूक्ष्मत्वादविशिष्टगुणमात्ररूपात्तन्मात्रवर्गाद्भूतवर्गस्य स्थूलत्वाद्विशिष्टगुणयोगित्वं विशेषः | अत एवैषां तन्मात्रसंज्ञाः | तच्छ्रूयते- गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयोजिताः (मृ० वि० १२|५) इति || ३ || अथैषां भूततन्मात्राणां कार्यशब्दवाच्यत्वमिन्द्रियाधारत्वं चाह- एतत्कार्यं दशधा करणैराविश्य कार्यते चेष्टाम् | अविभुत्वात् करणानि तु कार्यमधिष्ठाय चेष्टन्ते || ४ || एतानि च स्थूलसूक्ष्मरूपेणेन्द्रियाधाराणि स्थितानीत्युक्तं मतङ्गे- तन्मात्राणीह घटवन्महाभूतानि लेपवत् (वि० १९|२१) इति || ४ || अथ कर्मेन्द्रियसिद्धिमाह- वचनादानोत्सर्गानन्दागमनेषु कर्मकरणानि | श्रोत्रस्पर्शनदर्शनजिह्वाघ्राणानि बुद्धिकरणानि || ५ || वाक्करपायुप्रजननचरणसमाख्यानि करणानि | उत्सर्गो मलविरेकः | वागादीनि कर्माक्षाणि वचानाद्यासु क्रियासु करणानि सिद्धानीत्यर्थः | अतश्च कर्मेन्द्रियाभाववादिनो नैयायिकादयः प्रतिक्षिप्ताः, नाकरणा कृतिः संभवति यतः | ननु भ्रूलतोत्क्षेपादीनामपि क्रियात्वात् कर्मेन्द्रियानन्त्यप्रसङ्ग इति चेत्, तन्न, तेषां त्वगिन्द्रियवत् सर्वशरीरव्यापकत्वेना[न]भ्युपगमात्, हस्तादेरेव भ्रूक्षेपणादिव्यापारस्तत्तत्संज्ञाकृतः, तत्तदिन्द्रियशक्तीनां तत्र तत्र विशेषाधिष्ठानादित्यविरोधः | बुद्धीन्द्रियाण्युच्यन्ते- श्रोत्रस्पर्शनेति | स्पृश्यतेऽनेनेति स्पर्शनं त्वगिन्द्रियमेव | दर्शनमपि चक्षुरेव || ५ || अथ कैर्व्यापारैरेषां सिद्धिरित्याह- प्रत्येकं शब्दादिष्वेषामालोचनं वृत्तिः | इति दशधा करणं बहिरिच्छासंरम्भबोधवृत्त्यन्यत् || ६ || अन्तःकरणं त्रिविधं चित्ताहङ्कारबुद्धिनिर्वाच्यम् | उत्पत्तिरहङ्काराच्चित्तबहिष्करणभूतयोनीनाम् || ७ || एषां श्रोत्रादीनां यथाक्रमं शब्दस्पर्शरूपरसगन्धेषु विषयेषु आलोचनं ग्रहणम् | प्रत्येकमसाधारणं वृत्तिः | शब्दादिग्रहणान्यथानुपपत्त्या तेषां सिद्धिरिति भावः | इत्थं बहिर्दशप्रकारं बाह्येन्द्रियं ज्ञेयमिति शेषः | अन्तःकरणसिद्धिमाह- अन्तःकरणमिति | बाह्यकरणादन्यदन्तःकरणं त्रिविधम् | मनोबुद्ध्यहङ्काराख्यम् | तेषां च क्रमादिच्छादयो व्यापारा इत्याह- इच्छासंरम्भबोधवृत्तीति | तत्रेच्छाशब्देन संकल्पाख्यमवधानमेकाग्रतापरपर्यायमुच्यते | तच्च दृक्क्रियात्मकत्वाद् बुद्ध्यहङ्कारकार्याद् बाह्यग्राहकपरामर्शात्मनो भिन्नम्, तयोः प्रत्ययरूपत्वात् | अतो यस्यैतत्कार्यं तन्मन इति मनःसिद्धिः | तच्च मनः सङ्कल्पेनान्तरेण बाह्येन्द्रियाधिष्ठानेन च द्विधाधिकारीत्युक्तं मतङ्गे- द्विधाधिकारि तच्चित्तं भोक्तुर्भोगोपपादकम् | बहिः करणभावेन स्वोचितेन यतः सदा || इन्द्रियाणां तु सामर्थ्यं सङ्कल्पेनात्मवर्तिना | करोत्यन्तःस्थितं भूयस्ततोऽन्तःकरणं मनः || (वि० १८|८१-८२) इति | मृगेन्द्रेऽपि- देवप्रवर्तकं शीघ्रचारि संकल्पधर्मि च (वि० १२|७) इति | तत्र च देवशब्देनेन्द्रियाण्युच्यन्ते | इन्द्रियाधिष्ठातृत्वं च तत्रैव साधितम्- आत्मेन्द्रियार्थनैकृष्ट्ये सर्वदैवाप्रवृत्तितः | प्रवृत्तिकारकास्तित्वं युक्तितोऽप्यवसीयते || (वि० १२|९) इति | ततश्चाविभुत्वात् प्रत्यात्मनियततयाऽनेकत्वाच्च कार्यत्वं मनसः | तथा संरम्भः प्रयत्नात्मकोऽहङ्कारकार्य एव | यदुक्तम्- संरम्भोऽहङ्कृतेर्वृत्तिः (भो० का० ३३) इति | स च ज्ञानशक्त्याश्रयभूतया बोधाध्यवसायवत्क्रियाशक्त्याश्रयभूतया भवति | अयमेव प्राणादिरूपस्यान्तरस्य वायोः प्रवृत्तिनिमित्तम् | यदाहुः- प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः (प्र० वा० १|५४) इति | किञ्च, ग्राह्यपरामर्शात्मनो बुद्धिकार्यात् प्रतिक्षणमनेकरूपस्यात्यन्तविलक्षणस्य एकरूपस्याहमिति ग्राहकपरामर्शस्य यत्करणं सोऽहङ्कार इत्यहङ्कारसिद्धिः | न चायं तत्त्वान्तराणां कार्यः, तेषां स्वकार्यैरेव सिद्धेः, कार्यान्तरहेतुत्वे प्रमाणाभावात्, अनेकतत्त्वपरिकल्पनाभावप्रसङ्गाच्चा | एवं बोधो ग्राह्याध्यवसायो बुद्धिवृत्तिः | तथाहि- द्विविधोऽत्र बोधोऽध्यवसायात्मकोऽनध्यवसायात्मकश्च | तत्र योऽनध्यवसायात्मकः सर्वदा ग्राहकरूपेणैव भासमान आत्मस्वभाव एव | यस्त्वध्यवसायरूपः स उत्पन्नत्वोपप्त्त्याऽनित्यत्वेनाव-भासमानो न पुंस्वभावः, नित्यस्यानित्यस्वभावत्वायोगात् | न च नित्योऽसावनुभूयते, अतोऽयं यस्य स्वभावः सा बुद्धिः | तदाहुः- अस्ति ह्यालोचनज्ञानं प्रथमं निर्विकल्पकम् | बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् || ततः परं पुनर्वस्तुधर्मैर्जात्यादिभिर्यया | बुद्ध्याऽव-सीयते सापि प्रत्यक्षत्वेन संमता || (श्लो० वा०, प्रत्यक्ष० ११२, १२०) इति | किञ्च, धर्माद्याश्रयतयापि बुद्धिसिद्धिः श्रूयते- भावा बुद्धिगुणा धर्मज्ञानवैराग्यभूतयः | सात्त्विका व्यत्ययेनैते रागमुत्सृज्य तामसाः || (मृ० वि० १०|२४) इति | अयमभिप्रायः- कर्मणो धर्माधर्मात्मनोऽनुष्ठानरूपस्य तत्क्षणमेव नाशात् तज्जन्योऽपूर्वाख्यः संस्कारः कालान्तरफलश्रुत्यन्यथानुपपत्त्या कल्प्यते | स च नात्मनि संभवति, अविकारित्वात्, कर्मणां च कृष्यादीनामात्मसंस्कारकत्वादृष्टेः, अपि तु जड एव | यत्र तानि संस्कारं कुर्वन्ति, सा धर्माद्यष्टगुणा बुद्धिरिति | एवं ज्ञानादिसंस्कारेऽपि वाच्यम् | ते च भावाः सिद्ध्यादिप्रत्ययभेदेन शतत्रयसंख्या भवन्तीत्युक्तमन्यत्र | इत्थं करणवर्गं प्रसाध्य तत्र तेषां कस्मादुत्पत्तिरित्याह- उत्पत्तिरहङ्कारादिति | तत्र मनसो बुद्धीन्द्रियाणां च सात्त्विकात् तैजसाख्यादहङ्कारस्कन्धादुत्पत्तिः, कर्मेन्द्रियाणां तु राजसाद् वैकारिकाख्यात्, भूतयोनीनां च तन्मात्राणां तामसाद् भूतादिसंज्ञादेवं त्रिविधादहङ्कारादेषामुत्पत्तिः | यदुक्तं मृगेन्द्रे- श्रोत्रं त्वक्चक्षुषी जिह्वा नासा च मनसा सह | प्रकाशान्वयतः सात्त्वास्तैजसश्च स सात्त्विकः || वाणी पाणी भगः पायुः पादौ चेति रजोद्भवाः | कर्मान्वयाद् रजोभूयान् गणो वैकारिकोऽत्र यः || शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः | गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयोजिताः | प्रकाशकर्मकृद्वर्गवैलक्षण्यात् तमोद्भवाः | प्रकाश्यत्वाच्च भूतादिरहङ्कारेषु तामसः || (वि० १२|३-६) इति | अतश्च बुद्धीन्द्रियद्वारेण तैजसेनाहङ्कारेणात्मनो ज्ञानशक्तिरुन्मील्यते | वैकारिकेणापि कर्मेन्द्रियद्वारेण क्रियाशक्तिरुन्मील्यते | तस्या मलिनत्वात् तदपेक्षया यतः | एषां च सात्त्विकादिव्यवहारः सत्त्वादिगुणबाहुल्यात् | नामिश्रं परिणमत इति न्यायान्न त्वेकजनकं भवति || ६-७ || महतोऽहङ्कारस्य तु महतश्च गुणत्रयाज्जन्म | सत्त्वं रजस्तमश्च प्रख्याव्यापारनियमरूपाश्च || ८ || अहङ्कारस्य तु बुद्धेर्जन्म बुद्धेश्च गुणतत्त्वात् | तदुक्तं सांख्यैरपि- प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः (सां० का० २२) इति | ननु वैशेषिकादिभिर्नियतविषयत्वाद् भौतिकानीन्द्रियाणीष्यन्ते | तदयुक्तम्, चक्षुरादिना भूतान्तरगतस्य गुणस्य भूतान्तराणां कर्मसामान्यादेश्च ग्रहणात् | तदुक्तं भोगकारिकासु- भौतिकत्वाच्च नियमे कर्मसामान्ययोः स्फुटम् | देवेभ्यो बुद्धयो न स्युः समवाये च देहिनाम् || (श्लो० ४०) इति | यदुक्तं कारकत्वाविशेषेऽपि नैषां विषयनियतस्वभावभेद इति, तदप्युत्पत्तिभेदादिक्षुविकाराणां गुडखण्डशर्करादीनामिव भविष्यतीति न किञ्चिदेतत् | अथ गुणतत्त्वमाह- सत्त्वं रजस्तम इति | प्रकाशप्रवृत्तिनियमाः सत्त्वादीनां क्रमाद् व्यापारा इत्यर्थः | एषां च सूक्ष्मदेहद्वारेण समस्तमायाकार्येषु व्यापकत्वमस्ति | प्रकाशादयश्चान्यासामप्रधानानां गुणवृत्तीनामुपलक्षणम् | तथाहि- स्थैर्यधैर्यादयोऽपि सत्त्वस्य वृत्तयः, क्रौर्यशौर्यादयोऽपि रजसः, तमसस्त्वरतिमान्द्यादयोऽपीत्युक्तं मतङ्गादौ || ८ || ननु गुणा एव प्रकृतिरिति सांख्याः, तदयुक्तमित्याह- त्रय एव ते गुणास्त्विह येषां संभूतिरव्यक्तात् | अविभागो हि गुणानामाधारे क्ष्मादिभागवदवश्यम् || ९ || अयमभिप्रायः- गुणानामचैतन्ये सत्यनेकत्वाद् यतो घटादिवत् कारणपूर्वकत्वम्, ततस्तेषामव्यक्तादेव संभूतिरित्येवशब्दो भिन्नक्रमः | प्रकृतिकार्यत्वमेव प्रपञ्चयति- आधार इति | क्ष्मादिभागानां घटादिरूपाणां यथा पृथिव्यात्मक आधारेऽवश्यमविभागो भवति, एवं सत्त्वादीनामपि गुणभागानां कस्मिंश्चिदाधारेऽवश्यमविभागो विज्ञेयः | ततस्तस्याविभागस्य य आधारस्तदव्यक्तमित्यव्यक्तसिद्धिः | तदुक्तं मृगेन्द्रे- ततः प्राधानिकं तत्त्वं कलातत्त्वादजीजनत् | सप्तग्रन्थिनिधानस्य यत्तद् गौणस्य कारणम् || (वि० १०|१९) इति || ९ || अनन्तरं रागतत्त्वसिद्धिमाह- यज्जनिताभिष्वङ्गे भोग्याय नरि क्रिया स रागोऽत्र | भोग्यविशेषे रागे नहि कश्चिद् वीतरागः स्यात् || १० || ननु मतङ्गादौ प्रकृतिरागयोर्मध्ये पुरुषतत्त्वं श्रूयते | तत्सत्यम् | तस्य तु चेतनत्वान्नित्यत्वाच्च भुवनाद्याधारत्वेनाध्वत्वं न संभवति | तथाहि- कलादिपञ्चकयुक्तस्य भोक्तृत्वेन पुंस्त्वमलेनानात्मादावात्मा-भिमानरूपेण योग इति दीक्षायां तत्स्थान एव तच्छुद्ध्यर्थमागमेषु प्रक्रमितत्वादूर्ध्वं पुरुषतत्त्वतया पाठः श्रूयते | अतश्चाचार्येण तद्वर्णनमुपेक्षितम् | मायातत्त्वानन्तरं तु पशुस्वरूपं वक्ष्यति | अस्मिन् नरि पुरुषे येन जनिताभिलाषे भोग्यवस्त्वादानाय प्रवृत्तिर्भवति, सोऽत्र शैवे शास्त्रे रागो ज्ञेयः | अभिलाषात्मना कार्येण रागतत्त्वसिद्धिरित्यर्थः | नन्ववैराग्यलक्षणो बुद्धिधर्म एवाभिलाषहेतुरिति सांख्याः, तदयुक्तम्, वासनारूपस्याकार्यकरत्वात्, तस्य वा कार्यकरत्वे बुद्धेः सर्वदाऽनन्तवासनायोगेन पुंसो युगपद्विरुद्धानन्तप्रतिपत्तिवैशसप्रसङ्गाच्च | प्रत्यक्षरूपस्यापि भोग्यत्वान्नाभिलाषहेतुत्वम् | ननु विषयगुण एवाभिलाषहेतुरस्तु, तन्न, विषयसंनिधानमात्रादेव सर्वस्य सरागतापत्तेर्वीतरागाभावप्रसङ्गात् | तस्माद् वीतरागदर्शनान्यथानुपपत्त्याऽभिलाषहेतुर्ग्राहकगतो रागोऽभ्युपगन्तव्यः | एतदेवाह- भोग्यविशेष इति | न च कर्मैव रञ्जकं भविष्यतीति वाच्यम्, तस्य फलजनन एव चरितार्थत्वात्, अनेकतत्त्वपरिकल्पनाभावप्रसङ्गाच्च | ननु मायाया मोहकस्वभावो रागोऽस्तु, तन्न, यतो न मायायाः साक्षान्मोहकत्वम्, अपि तु कार्यद्वारेणैवेत्यदोषः || १० || वीतरागश्च प्रत्यक्षसिद्ध एवेत्याह- यदुपहितेऽभिष्वङ्गो महति पुनस्तदुपधौ स नो दृष्टः | तस्मान्नो वाच्यमिदं सविशेषो नास्ति वीतराग इति || ११ || येन स्त्र्यादिना विषयेणोपधाने सत्यपि सोऽभिलाषो न दृष्टः, तस्मात् प्रत्यक्षदृष्टत्वादनभिलाषलक्षणः सविशेषो वीतरागो नास्तीति न वाच्यम् || ११ || विद्यातत्त्वसिद्धिमाह- करणेन येन भोग्यं करोति पुरुषः प्रचोद्य महदादीन् | भोग्ये भोगं च पुनः सा विद्या तत्परं करणम् || १२ || येन करणेन बुद्ध्यहङ्कारादिकरणग्रामं प्रचोद्य पुरुषो भोग्यं निष्पादयति, तस्मिंश्च भोग्ये भोगं च करोति, तद्विद्याख्यं करणमात्मन इति सन्निकृष्टत्वात् परमित्युच्यते | एतदुक्तं भवति- अश्वेन पथा दीपिकया यातीत्यादाविवात्रानेककरणसाध्येऽपि फले विद्यैव परमं करणम्, यतस्तयैव भोग्यं जानातीति || १२ || किं पुनरत्र भोग्यं को वा भोग इत्यत आह- बुद्धिर्विषयाकारा सुखादिरूपा समासतो भोग्यम् | भोग्ये भोगो भोक्तुश्चिद्व्यक्तिर्भोग्यनिर्भासा || १३ || अध्यवसितस्रक्चन्दनादिविषया, अत एव सुखदुःखमोहाध्यवसायरूपा बुद्धिरेव पुंसः समासतः संक्षेपेण भोग्यम्, तस्या एव साक्षाद्भोग्यत्वात् | विषयास्तु बाह्यास्तत्साधनत्वे परम्परया भोग्या उच्यन्ते | तथाहि- भोग्यं वस्तु हि चित्ताधिष्ठितं बुद्धीन्द्रियवृन्दं विद्याया विषयत्वेनोपस्थापयति | तच्चाहङ्कारवृत्त्यात्मपरामर्शपूर्विकया बुद्ध्याऽध्यवसितमर्थं पुरुषो गृह्णाति | यदाहुः- (पूर्वतनी (पृ० ७८) द्वितीया टिप्पणी द्रष्टव्या |) बुद्ध्यध्यवसिरमर्थं पुरुषश्चेतयति इति | बुद्ध्यादीनां सन्निहितासन्निहितविषयोपस्थापकत्वेनोपयोगः, न तु संविज्जनकत्वेन | उपस्थापितविषयं बुद्ध्यहङ्कारेन्द्रियभेदैः सह या विवेचयति, सा विद्येति विद्यासिद्धिः | ततश्च भोक्तुरनुसन्धातुः पुरुषस्य, भोग्ये बुद्ध्याख्ये सुखाद्यध्यवसायरूपे, सुख्यहं दुःख्यहमिति भोग्यनिर्भासा भोग्योपरक्ता, चिद्व्यक्तिः सविदुद्भवः, स भोगो मन्तव्यः | यदुक्तं स्वायंभुवे- भोगोऽस्य वेदना पुंसः सुखदुःखादिलक्षणा इति | ततश्चाध्यवसायस्मृतिप्रतिभाप्रत्ययभेदभिन्ना बुद्धिरपि यया (वि?वे) द्यते, सा विद्या | तच्च परं करणमित्युक्तम् || १३ || ननु बुद्धिरेव प्रकाशरूपत्वात् सूर्यादिवद् विषयानप्यध्यवसायेन प्रकाशयिष्यति, स्वात्मानमपि ग्राहयिष्यति, तत्किमन्येन विद्याख्येन करणेनात आह- रविवत् प्रकाशरूपो यदि नाम महांस्तथापि कर्मत्वात् | करणान्तरसापेक्षः शक्तो ग्राहयितुमात्मानम् || १४ || प्रकाशरूपापि बुद्धिर्ग्राह्यतापन्नमात्मानं करणत्वेन ग्राहयितुं न क्षमा, ग्राह्यत्वेन घटादिवद् बहिरङ्गत्वात् | इदं चात्राकूतम्- प्रकाशरूपा अपि सूर्यादयो न केवलाः स्वात्मानं ग्राहयन्तीति, किन्तु चक्षुरादिसापेक्षा एव | ततः स्मृत्यादिरूपापि बुद्धिर्न केवला स्वात्मानं ग्राहयति, अपि तु करणान्तरसापेक्षैवेति तत्करणत्वेन विद्यासिद्धिः || १४ || ननु प्रकृतिरेव बुद्ध्यात्मना परिणतमात्मानं पुरुषस्य भोग्यत्वेन दर्शयति, पुरुषस्य तु न कर्तृत्वम्, अपि तु द्रष्टृत्वमे(वातः ? वेत्य)कर्तृत्वात् तस्य न करणापेक्षेति पुनरपि विद्यानर्थक्यम् | अत आह- संबन्धात् करणाद्यैर्भोगौत्सुक्येन तत्प्रयोक्तृत्वात् | तच्चेष्टाफलयोगात् संसिद्धा कर्तृता पुंसः || १५ || करणैर्बुद्ध्यादिभिः, आदिग्रहणाद्विषयैश्च संबन्धाद् भोगाभिलाषेण तेषां करणादीनां प्रयोक्तृत्वात् तच्चेष्टाया विषयग्रहणात्मिकायाः क्रियायाः फलेन सुखादिना योगाच्च पुरुषस्य कर्तृत्वं सिद्धम् | भोग्यौत्सुक्येनेति पाठे भोग्यवस्तुविषयेणाभिलाषेणेति व्याख्येयम् | इदं चात्राकूतम्- प्रकृतेरचेतनत्वान्न पुरुषं प्रति परमार्थेन प्रवृत्तिर्युक्ता, पुंस एव तु चेतनत्वेन करणादिप्रयोक्तृत्वं संभवति | ततस्तस्यैव कर्तृत्वम्, अकर्तरि करणादिसंबन्धस्य निरर्थकत्वादिति | न च अचेतनस्यापि क्षीरस्य गवादेर्वत्सादिवृद्ध्यर्थं प्रवृत्तिर्दृष्टा, यदुक्तं सांख्यैः- वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य | पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य || (सां० का० ५७) इति वाच्यम्, क्षीरस्यापि गवादिप्रेतितस्यैव प्रवृत्तिदर्शनात् प्रधानस्यापि न स्वतः प्रवृत्तिरूपपद्यते यतः || १५ || किञ्चास्य कर्तृत्वाभ्युपगमे- व्यर्थं भोक्त्रभिधानं व्यर्थं च ततः प्रधानचरितं वः | नरि कर्तृत्वविहीने न च भोग इहाप्रयोजके दृष्टः || १६ || यस्मात् कर्तृत्वरहिते करणाद्यप्रयोजके वा पुंसि भोगो न दृष्टः, ततो भोगस्यापि संवेदनरूपस्य क्रियात्वेन भोक्तुः कर्तृत्वानपगमात् तदनभ्युपगमे भवतां पुरुषे भोक्तृत्वकथनं तद्भोगार्थमचेतनस्य प्रधानस्य प्रवृत्तिश्च कल्प्यमाना निरर्थकत्वान्न युक्तेत्यर्थः | ततः करणादिप्रयोक्तृत्वाद् भोक्तृत्वाच्च पुंसः कर्तृत्वं सिद्धमेव | यदाहुः- (आकरो नोपलभ्यत इति म० पा० वि० (पृ० १७१, टि० १०) द्रष्टव्या |) प्रवृत्तौ च निवृत्तौ च कारकाणां य ईश्वरः | अप्रवृत्तः प्रवृत्तो वा स कर्ता नाम कारकः || इति || १६ || इत्थं ज्ञातृत्ववत् कर्तृत्वमपि पुंसः स्वरूपमिति प्रतिपादितम्, इदानीं तयोरनादिमलावृतत्वाच्छिवस्येव सर्वत्र सर्वदा न प्रकाश इति केनापि व्यङ्ग्यता सिद्धेत्याह- व्यङ्ग्यं कर्तृत्वमतो सर्वार्थत्वात् कदाचिदुत्पत्तेः | ज्ञातृत्ववदिह वेद्या तद्व्यक्तिकरी कला सा तु || १७ || ज्ञातृत्ववदिहेति | इह सकलावस्थायां ज्ञातृत्ववत् कर्तृत्वस्याप्यसर्वविषयत्वात् कदाचिदुत्पद्यमानत्वाच्च केनाप्यागन्तुकेन व्यङ्ग्यत्वं प्रतीयते | ततश्च तद्व्यञ्जकतया कलातत्त्वसिद्धिरित्याह- वेद्या तद्व्यक्तीति | तयोर्ज्ञातृत्वकर्तृत्वयोः, एकदेशमलविदारणेन या व्यञ्जिका, सा कलेति कलासिद्धिः || १७ || ननु मलरुद्धापि पुंसः शक्तिः सृष्टिकाले शिवशक्त्या प्रबोधिता तिष्ठति, किं कलाख्येन तत्त्वेनात आह- पाशं तु विना नेशो व्यञ्जयति यतो न सर्वविषयं तत् | दोषो विषमो पथ्यं विनैव नो रोगकर्तृशक्तिमिव || १८ || यतः संसारावस्थायां पुंसः चैतन्यं दृक्क्रियात्मकं न सर्वविषयं दृश्यते, ततः पाशद्वारेणैव तदीश्वरोऽभिव्यनक्ति, न साक्षात् | मलपरिपाके तु दीक्षाख्यया स्वशक्त्या सर्वविषयं तत्प्रकाशयतीति वक्ष्यामः | ततश्च शिवशक्तिस्तत्त्वान्तराधिष्ठानेनैवात्मनां भोगदायिका न साक्षात्, तथा सति बुद्ध्यादीनामप्यानर्थक्यप्रसङ्गादिति भावः | एतदेव दोष इत्यादिदृष्टान्तोपन्यासेन द्रढयति | यथाहि विषमोऽसाम्यं प्राप्तो दोषो वातपित्तादिरपथ्यं विना रोगस्य कर्तृशक्तिम-सौख्यकरणसामर्थ्यं न व्यञ्जयति, अपि त्वपथ्यसेवाव्यवधानेनैव, व्यवधानेनैव, तथेशोऽपि पाशव्यवधानेनैवात्मनामसर्वविषयं चैतन्यं व्यञ्जयतीत्येतावतात्र दृष्टान्तता, न सर्वथा साम्येन, तस्य दुःखैकहेतुत्वादीश्वरस्य च तदुपकारायैव प्रवृत्तत्वात् | एतच्च कलादिकार्यकर्तृत्वमीश्वरस्यानन्ताद्यधिष्ठानेनेत्युक्तं किरणे- शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः (वि० ३|२७) इति || १८ || ननु भोगस्य कर्मनिबन्धनत्वाद् विज्ञानकेवलस्य च कर्माहितस्य सुखदुःखादिभोगसंवेदनादृष्टेः कर्मणैव केवलेनात्मनश्चैतन्यवृत्तिमीश्वरः कर्षतीत्यत आह- न च कर्मणैव यस्माच्चरितार्थं कर्म भोगनिष्पत्तौ | ज्ञानेऽपि च प्रसङ्गात् ततश्च विद्यादिबन्धवैयर्थ्यम् || १९ || नात्र कर्मणैव केवलेनात्मचैतन्याभिव्यक्तिः, तस्य फलजनन एव चरितार्थत्वात्, कार्यान्तरहेतुत्वे प्रमाणाभावाच्च | तस्यैव च कार्यान्तरहेतुत्वेऽभ्युपगम्यमाने विषयग्रहणाध्यवसायादिकार्येऽपि तस्यैव हेतुत्वं प्रसज्यते | ततश्च विद्याबुद्ध्यादीनामपि तत्त्वानामानर्थक्यप्रसङ्गः | ततस्तत्त्वान्तरसहकृतस्यैव कर्मणो भोगनिमित्तत्वमिति यथाऽध्यवसायादिकार्यान्यथानुपपाया बुद्ध्यादयः कल्प्यन्ते, एव. पुंसो ज्ञानक्रियाशक्त्यभिव्यक्त्यन्यथानुपपत्त्या कला सिद्ध्यतीति न कश्चिद्दोषः || १९ || अत्र पराशङ्का- पूर्वं कलादियोगादग्रहणाद् दृक्क्रिये न विद्येते | व्यञ्जकरहिते तत्र हि नो गृह्येते न खल्वसद्भावात् || २० || कलादितत्त्वसंबन्ध एव ज्ञत्वकर्तृत्वयोरुत्पत्तेः, तत्पूर्वकालं च तयोरदर्शनात् ते ज्ञत्वकर्तृत्वे तस्मिन्नात्मनि तदानीं स्वरूपतया न विद्येते, अपि तु कलादिसंयोग एवोत्पद्येते | ततो ज्ञानाद्याधारतैवात्मनः सिद्ध्यति, न तु ज्ञत्वादिरूपतेति पूर्वः पक्षः | सिद्धान्तस्तु- व्यञ्जकरहित इति | अयमभिप्रायः- जडस्वभावस्य घटादेरिव ज्ञानसमवायाभावात्, अनित्यज्ञानसमवायाभ्युपगमे विकारयोगेन तस्याप्यनित्यत्वप्रसङ्गात्, व्यञ्जकसंनिधाने ज्ञातृरूपस्य ग्राहकात्मनः स्वसंवेदनसिद्धत्वाच्च नित्यमेवात्मनश्चेतनात्मकत्वमभ्युपगन्तव्यम् | तच्चात्मनः स्वरूपमनादिमलावृतत्वाद् व्यञ्जकेन विना न प्रकाशत इत्युक्तम् | ततश्च कलादियोगात् पूर्वं व्यञ्जकरहितत्वात् ते ज्ञत्वकर्तृत्वे तत्र आत्मनि न प्रकाशेते, न त्वसत्त्वात् | व्यञ्जकाभावकृतो हि योऽनुपलम्भः स नाभावसाधकः, अपि तु सति व्यञ्जके, भूतनिधानादीनां सत्त्वेऽपि व्यञ्जकासन्निधानेऽनुपलम्भात् || २० || एतदेवाह- उपलम्भके च सत्यपि लोके यन्नोपलभ्यते तदसत् | ज्ञानक्रिये च तद्वन्नासद्भूते कदाचिदतः || २१ || यस्य हि घटादेः प्रदीपादिव्यञ्जकसद्भावेऽपि नोपलम्भः, तस्यैवासत्त्वम्, नान्यस्यान्धकारादितिरोधानेनानुपलभ्यमानस्य | अतश्च ज्ञानक्रिये अपि व्यञ्जकाभावादेव देव नोपलभ्येते, तस्मात् कदाचिदपि नासत्तां व्रजत इत्याह- ज्ञानक्रिये चेति | ननु जन्मनः पूर्वमनुभवितुर्ज्ञानादिसत्तानिश्चयाभावात् संशय एव युक्तः ? तन्न, तदहर्जातानामपि बालानां पानचरणाभिघातादिचेष्टाविशेषस्य प्रयत्नपूर्वकस्य हिताहितस्मरणाविनाभावेन व्यवहारकाले सिद्धस्य दर्शनाद् जन्मनः प्रागपि ज्ञत्वकर्तृत्वयोः सत्त्वं सिद्धमेव यतः || २१ || एतदेव दृष्टान्तेन साधयति- प्राक्पचनव्यापारात् तत्सिद्धिः पाचके यथा तद्वत् | बोधात् करणाच्चाणोः पूर्वं सिद्धे कुतस्तच्छक्तिः || २२ || यथा पाचनक्रियादर्शनेन तत्पूर्वकालं परिदृश्यमानं पचनसामर्थ्यं पाचके प्रागेवास्तीति गम्यते, न तु तत्कालमेवोत्पद्यत इति | एवं ज्ञानकार्ययोर्दर्शनादात्मनस्ते ज्ञानक्रियाशक्ती प्रागेव विद्येते इति निश्चीयते | तदुक्तं श्रीमन्मृगेन्द्रे- चैतन्यं दृक्कृयारूपं तदस्त्यात्मनि सर्वदा | सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् || (वि० २|५) इति | ततश्च- व्यञ्जकसापेक्षत्वात् तन्मूलं दृक्क्रियावरणमस्ति यतः | यदभावे दृक्क्रिययोः सर्वार्थत्वादणोर्न संसरणम् || २३ || यतः संसारावस्थायां ज्ञानक्रिययोर्व्यञ्जकापेक्षा दृश्यते, अतस्तदपेक्षायाः कारणं दृक्क्रियाच्छादनं किमप्यस्तीत्यवसीयते | यस्याभावे मुक्तात्मनां ज्ञत्वकर्तृत्वयोरीश्वरवत् सर्वविषयकत्वात् पुनः संसारयोगो नास्तीति श्रूयते | ननु सांख्यैर्निर्मल एवात्माभ्युपगतः, तदसत्, संसारावस्थायां तस्य पारतन्त्र्यदर्शनात्, तस्य चाहेतुकत्वे मुक्तस्यापि पारतन्त्र्यप्रसङ्गात्, ज्ञानक्रिययोर्व्यञ्जकापेक्षणाच्च | यच्छ्रूयते- पाशाभावे पारतन्त्र्यं वक्तव्यं किंनिबन्धनम् (मृ० वि० ७|२) इत्यादि || २३ || एषां चाव्यक्तादीनामुत्पत्तिक्रममाह- अव्यक्तरागविद्याः कलासमुत्थाः कला च मायाजा | वसुधाद्यस्तत्त्वगणः प्रतिपुंनियतः कलान्तोऽयम् || २४ || पर्यटति कर्मवशतो भुवनजदेहेष्वयं च सर्वेषु | भुवनाकृतयश्चान्ये स्कन्धा ज्ञेयाः कलान्तानाम् || २५ || यदुक्तं रौरवे- कलातत्त्वाद्रागविद्ये द्वे तत्त्वे संबभूवतुः | अव्यक्तं च (वि० २|१५) इति | कला चेति चशब्दात् कालनियती च मायासमुत्पन्ने, कालनियत्योरपि मायोद्भूतत्वेन भोगक्रियोपकारकत्वेन च श्रुतेः | तथाहि- नियत्यभावे ह्यन्योपार्जितान्यपि कर्माण्यन्ये भुञ्जीरन्, राजनियमाभावे द्विजादिकृष्यादिफलानीव दस्यव इति नियामकत्वेन नियतिः सिद्धा | कालश्चापि तस्यैव भोगावधिनियमहेतुश्चिरक्षिप्रादिप्रत्ययलिङ्गः सिद्ध एवेत्यादिविस्तरेणोक्तमस्माभिः मृगेन्द्रवृत्तिदीपिकायां तत्त्वप्रकाशवृत्तौ च | प्रोक्तं च मृगेन्द्रे- त्रुट्यादिप्रत्ययस्यार्थः कालो मायासमुद्भवः | कलयन्ना समुत्थानान्नियत्या नियतं पशुम् || (वि० १०|१४) इति | एतच्च तत्त्वद्वयं कलाद्यपेक्षया बहिरङ्गत्वादाचार्येण विस्तरेण न साधितम्, अपि तु चशब्देन सूचितमित्यविरोधः | एतच्च कलादित्रिंशत्तत्त्वात्मकं सूक्ष्मशरीरं प्रतिपुरुषनियतत्वेन तेषां भोगसाधनमित्याह- वसुधाद्य इति | तदुक्तं मृगेन्द्रे- प्रयोक्त्र्यादिमहीप्रान्तमेतदण्वर्थसाधकम् (वि० १२|३२) इति | अत एव दीक्षायां सूक्ष्मदेहशुद्धिर्मायातत्त्वाधोभाग एव स्थाने कार्येत्युक्तं रौरवादौ | ननु श्रीमत्कालोत्तरे- शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमम् | बुद्धिर्मनस्त्वहङ्कारः पुर्यष्टकमुदाहृतम् || (१७|४-५) इति श्रूयते ? सत्यम्, अत तवैतत्सूत्रं भगवता रामकण्ठेन त्रिंशत्तत्त्ववाचकतया व्याख्यातम् | यद्येवं कथमस्य पुर्यष्टकत्वम्, भूततन्मात्रबुद्धीन्द्रियकर्मेन्द्रियान्तःकरणसंज्ञैः पञचभिर्वर्गैस्तत्कारणेन गुणतत्त्वेन तदापूरकेण च प्रधानेनभोक्त्रिस्वरूपोपकारकेण कलादिपञ्चकञ्चुकात्मना च वर्गेणारब्धत्वादित्यविरोधः | तच्च सूक्ष्मशरीरं बाह्यशरीरभेदेऽपि सृष्टेरारभ्य संहारान्तं तदन्तराले मोक्षप्राप्त्यन्तं वा एकस्य एकमेवेत्यवगन्तव्यम् | इत्थमसाधारणरू(पं?पां) कलादितत्त्वसृष्टिमुक्त्वाऽऽत्मन एव कर्मानुगुणभुवनजदेहविषयाद्याधारभूतां भुवनात्मिकां साधारणीं सृष्टिमाह- भुवनाकृतयश्चेति || २४-२५ || एषां च तत्त्वानां प्रतिपुरुषं नियततयाऽचैतन्ये सत्यनेकत्वाद् भुवनाधारत्वेन सावयवत्वाच्च कार्यत्वसिद्धेस्तदुपादानं माया सिद्धेत्याह- विकृतेः परतो माया नित्या विभ्वी ह्यचेतना चैका | सर्गस्थितिविलयानामाधारः कारणं च सा जगतः || २६ || उपादानकारणत्वात् सृष्ट्यादीनामाधारत्वेन विकृतेः स्वकार्यवर्गस्य परतः, पठ्यत इति शेषः | सा च नित्या, परमकारणत्वात् तस्याप्युपादानाभ्युपगमेऽनवस्थाप्रसङ्गाच्च | विभ्वी च स्वकार्यव्यापिका | किञ्चाचेतना, उपादानत्वादेव, मृदादीनामुपादानानामचैतन्यमेव दृश्यते यतः | एका च परमकारणत्वादेव | अनेकत्वे ह्यचैतन्ये सत्यनेकत्वाद् घटादिवत् कारणान्तरं मृग्यम्, अतश्चानवस्था स्यात् | अत एव परमाणवो न परमकारणमुत्युक्तम् | ननु परमात्मैव जगदुपादानमिति वेदान्तविदः, तदयुक्तम्, तस्योपादानत्वे तत्त्वादिवज्जडत्वप्रसङ्गात्, चेतनाचेतनकारणत्वेऽस्यापि तद्रूपत्वेन सांशतया कार्यत्वप्रसङ्गाच्च- यदा यद्रूपिणो भावास्तदा तद्रूपेण हेतुजाः इति | एतच्च दूषणं पाञ्चरात्राभ्युपगताया नारायणाख्यायाः परप्रकृतेरपि विज्ञेयम्, न्यायस्य समानत्वात् | अत्र सर्गस्थितिविलयानामाधार इत्यनेन सत्कार्यवाददृशा महाप्रलये कलादिकार्याणि सूक्ष्मरूपेण मायायामवस्थितानीति दर्शयति | यच्छ्रूयते- तदाधाराणि कार्याणि शक्तिरूपाणि संहृतौ | विवृतौ व्यक्तिरूपाणि व्याप्रियन्तेऽर्थसिद्धये || (मृ० वि० ९|१३) इति | एष च सत्कार्यवादोऽस्माभिः मृगेन्द्रवृत्तिदीपिकायां विस्तरेण साधितः || २६ || इत्थं शुद्धाध्वानं प्रतिपाद्य यस्येदमुपकारकं तमाह- नित्यं विभु च मलेन ह्यनादिसंरुद्धदृक्क्रियं तत्त्वम् | पश्वभिधानं यस्य हि भोगायाऽयं तु परिकरोऽभिहितः || २७ || यस्य कर्मभोगार्थं साधारणासाधारणरूपो मायीयः परिकरोऽभिहितः, तदात्मवृन्दमलेन पशुत्वाख्येनानाद्यावृतज्ञानक्रियत्वात् पश्वाख्यं तत्त्वमुच्यते | अत एव न मलस्य तत्त्वान्तरत्वमपि तु पशुतत्त्व एवान्तर्भावः, तेन विना पशुत्वायोगाच्च | तत् तत्त्वं नित्यम्, न तु बौद्धानामिव क्षणिकम्, पूर्वानुभूतस्मरणदर्शनात्, क्षणिकत्वे कर्मानुष्ठानतत्फलभोक्तृत्वयोरनुपपत्तेश्च | किञ्च विभुः, न तु क्षपणकानामिव शरीरपरिमितः सङ्कोचविकासधर्मी वा, तादृशस्याचेतनत्वानित्यत्वादिदोषप्रसङ्गात्, कर्मफलभोक्तृत्वेन च भोगवैचित्र्यदर्शनात् | अनेकत्वमात्मनामर्थसिद्धमेव | वक्ष्यति च संक्रान्तिनिराकरणसमये | अत्र यदा कूटस्थनित्येन मलेन प्रवाहनित्येन च कर्मणाऽनादिसम्बन्धस्य मोक्षदित्सायां शम्भुर्मलपरिपाकार्थं कर्मभोजनाय मायीयेन कलादिना सम्बन्धं करोति, तदाऽसावात्मा सकल इत्युच्यते, महाप्रलये तु कलाद्युपसंहारान्मलकर्मयुक्तः प्रलयाकलः, विज्ञानयोगादिना कर्मणो विनाशात् केवलमलयुक्तो विज्ञानकल इत्यादिपशुभेदोऽस्माभिस्तत्त्वप्रकाशवृत्तौ विस्तरेण दर्शितः || २७ || अयं च- ध्वंसितबन्धनजालो दीक्षाज्ञानाख्यया तु शिवशक्त्या | शुद्धोऽध्वा तत्त्वानामा प्रकटीकृतदृक्क्रियश्चाणुः || २८ || तत्र ह्याचार्यकृतो निरधिकरणो वा शिवस्यानुग्राह्यविषयः शाक्तो व्यापारो दीक्षोच्यते | ततो दीक्षाज्ञानादिशब्दवाच्यता शिवशक्त्याऽपनीतमलादिपाशजालोऽत एव प्रकाशितसर्वार्थज्ञानक्रियोऽणुरात्मा शुद्धाध्वसंज्ञो भवति | यदुक्तं रौरवे- सर्वाञ्जनविनिर्मुक्तं शिवशक्तिकले स्थितम् | आत्मतत्त्वमिदं शुद्धम् (वि० ४|४३) इति | ननु ज्ञानादेवात्मनां मोक्ष इति वेदान्तिसांख्यादयः, तदयुक्तम्, मलस्य द्रव्यत्वाच्चक्षुषः पटलादेरिव न ज्ञानमात्रान्निवृत्तिः संभवति, अपि तु चक्षुर्वैद्यव्यापारेणेव दीक्षाख्येनेश्वरव्यापारेणैव | यत उक्तं स्वायंभुवे- दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि इति || २८ || इयं च संज्ञाऽस्यानुग्रहोत्तरमधिकारादिनिबन्धनदेहसंयोग एव, न तु शिवसाम्यरूपपरमुक्तिप्राप्तौ, तदानीं मुक्तशिवत्वेनैव व्यवहारादित्याह- पश्यति शिवं स्वशक्त्या ध्यायति चासौ शिवेद्धया दृष्ट्या | यजते शम्भुं मन्त्रैरूपकारायात्मनः परेषां च || २९ || असौ शुद्धात्मा शिवसमर्थ(त?)या स्वशक्त्यात्मिक(त?)या दृष्ट्या शिवं ध्यायति पश्यति च | तदुक्तं मोक्षकारिकासु- शिवार्कशक्तिदीधित्या समर्थीकृतचिद्दृशा | शिवं शक्त्यादिभिः सार्धं पश्यत्यात्मा गतावृतिः || (श्लो० १११) इति | अत एव पातञ्जलाद्युक्तवद् द्युक्तवद् बुद्ध्यादिविषयत्वं शिवस्य न संभवति, तस्य पाशागोचरत्वात् | यदुक्तं तत्रैव- अन्तःकरणवृत्तिर्या बोधाख्या सा महेश्वरम् | न प्रकाशयितुं शक्ता पाशत्वान्निगडादिवत् || (श्लो० १०६) इति | किञ्चासावात्मनः परेषां च उपकारार्थं तमेव विविधैर्यज्ञैर्यजति | यदुकं रौरवे- यजन्ति विविधैर्यज्ञैर्मन्त्रतन्त्रविशारदाः | गुरुतन्त्राद्यनुज्ञाता दीक्षाविच्छिन्नबन्धनाः || (वि० २|२१-२२) इति | तत्राचार्या विद्येश्वरादयश्चाधिकारक्षयादात्मोपकारार्थं भोगमोक्षदानादिपरोपकाराय च यजन्ति, सधकः पुत्रको वाऽत्मन एव भोगमोक्षार्थमिति भेदः || २९ || तेषु मध्यान्मायागर्भाधिकारीश्वरतत्त्वमाह- मण्डलिनः श्रीकण्ठः क्रोधाद्याः शतभवाः सवीरेशाः | एते कलादियोगात् प्रकटीकृतदृक्क्रियाः परेशेन || ३० || तत्र मण्डलिनः अष्टौ कलामस्तकस्थाः | यदुक्तं रौरवे- मण्डलाधिपतिभ्यो यस्तत्त्वमार्गः प्रतिष्ठितः (वि० ४|२१) इति | श्रीकण्ठो गुणतत्त्वनिलयोऽधस्तनभुवनादेश्च कर्ता | क्रोधादयश्च गुणमस्तकस्था अष्टावेव शतभवाः शतरुद्रा ब्रह्माण्डधारकाः | वीरेशो वीरभद्रः शतरुद्राधिष्ठाता | एते च शिवेनैव प्रकटीकृतदृक्क्रियाः | ततश्चारिनिबन्धनात् कलादियोगादपि पशुवन्न विपरीतज्ञानयोगिनः, शिवेन साक्षादनुगृहीतत्वात् | यदुक्तम्- कलायोगेऽपि नो वश्याः कलानां पशुसङ्घवत् (मो० का० ८२) इति | स तु कलादियोगस्तेषामनन्तकर्तृक एव, शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः (कि० वि० ३|२७) इति श्रुतेः || ३० || कुर्वन्ति भुक्तिमुक्ती स्वगोचरे नियोगतः पुंसाम् | एतच्चापरमन्त्रेश्वरतत्त्वं मायागर्भाधिकारीत्याह- मन्त्रेशतत्त्वमेतद् मायाकार्याधिकार्यपरम् || ३१ || इत्थं परममन्त्रेशानुक्त्वा मन्त्रान् वक्तुमाह- सर्गादावणुकोट्यः सप्तेशानेन दारितावरणाः | ज्वालितदृक्कर्तृत्वात् तत्त्वं मन्त्राख्यमेतद्धि || ३२ || अत्र च विज्ञानकेवलानष्टौ बोधयामास पुद्गलान् (मा० वि० १|१९) इति श्रुतेः शुद्धाध्ववर्तित्वाच्च विज्ञानकलानां मध्यात् परिपक्वमलानामेव तत्पाकतारतम्यवशाद् विद्येश्वरत्वे मन्त्रेश्वरत्वे च नियोगः, अपरमन्त्रेश्वरत्वेऽशुद्धाध्ववर्तित्वादपक्वमलानां प्रलयाकलानामेवेति मन्तव्यम् | मन्त्रशब्दश्चात्र- (सार्धत्रिशतिकालोत्तरवृत्तिः (पृ० ४, टि० २२) द्रष्टव्या | श्लोकोऽयं मृगेन्द्रवृत्तौ (क्रि० १|१) च दृश्यते |) मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः | मननत्राणधर्मित्वान्मन्त्र इत्यभिधीयते || इति श्रुतेः शिवशक्तितदनुगृहीतेषु च वर्तते | उपचारात्तु वाचकशब्दानां मन्त्रत्वमिति वक्ष्यामः | निर्मलत्वाच्च प्रकाशितज्ञानक्रिया एते मननादिधर्मयोगाच्छुद्धविद्यातत्त्वाश्रितत्वाच्च रौरवादौ शैवशास्त्रे मन्त्रतत्त्वमित्युच्यन्ते | अत एव शुद्धविद्यासंयोजनात् पूर्वं मयोर्ध्वस्थान एव मलविच्छित्तिर्दीक्षायां कार्येति गुरवः || ३२ || अथैषामनुग्रहकरणत्वमाह- जगति कृते तत्रार्धं मन्त्राणां शिवसमाहृतान् पुंसः | अनुगृह्य याति हि विना देशिकमूर्ति प्रयुक्तमीशेन || ३३ || तत्र तेषु सप्तकोटिसंख्येष्वणुषु मध्यादर्धं गुर्वधिकरणमनपेक्ष्यैवेश्वरेण प्रयुक्तं सत् शिवसमाहृतान् शिवेनैवानुग्रहशक्त्या विषयीकृतान् पुंसोऽनुगृह्य सृष्ट्यनन्तरमेव यातीति, अनुग्रहमिति शेषः | यदुक्तं मृगेन्द्रे- प्रयोक्तृदेहसापेक्षं तदर्धमखिलेऽध्वनि | कृत्वाधिकारं स्थित्यन्ते शिवं विशति सेश्वरम् || विनाधिकरणेनान्यत् प्रधानविकृतेरधः | कृत्वाऽधिकारमीशेष्टमपैति (वि० ४|७-८) इति | तेषु मध्याद् विशिष्टमलपाकवन्तः सृष्ट्यनन्तरमेव मोक्षभाजः, अन्ये संहारकाल एवेत्यर्थः || ३३ || अत एवान्यस्यार्धस्य व्यापारमाह- शिवकृतमण्डलमन्त्रैर्युक्तं चान्यत् प्रयुक्तमीशेन | देशिकदेहस्थेन तु दीक्षाख्येन प्रयोगेण || ३४ || विषवन्निकृन्तति पशोः सहसा मलकर्मयोनिकार्याणि | आराधितं तु सिद्धीर्यच्छति विविधाश्च साधकेन्द्रेभ्यः || ३५ || शिवेन पश्वनुग्रहार्थमुत्पादितैर्महामण्डलविद्याङ्गादिमण्डलैस्तेषु पूज्यतया श्रुतैर्मन्त्रैश्च सहितमन्यदर्धमाचार्यमूर्तिस्थेनेशेन प्रयुक्तं सत् पशोर्मलकर्ममायाकार्याणि विषमिव सहसा निकृन्तति | अत एव सकलस्यैव गुर्वधिकरणशिवानुग्रहः, तस्यैव बन्धत्रययोगात् | मलश्चात्र एक एवानेकात्मावारकानेकशक्तियुक्तो नित्यो व्यापकश्च | यच्छ्रूयते- तदेकं सर्वभूतानामनादि निबिडं महत् | प्रत्यात्मस्थस्वकालान्तापायिशक्तिसमूहवत् || (मृ० वि० ७|८) इति | ततश्च यस्याः शक्तेः पाकः, तस्या एव दीक्षया रोध इति मलैक्ये युगपत् सर्वमोक्षप्रसङ्गोऽपि परिहृतः | कर्म च धर्माधर्मात्मकं पुरुषनियतं प्रवाहानादि | योनिस्तु माया, तत्कार्याणि च साधारणासाधारणरूपाणि कर्मनिमित्तत्वादागन्तुकान्यपि प्रवाहानादीन्येव, बीजाङ्कुरवदनादित्वेनैव कर्मशरीरप्रबन्धस्य सिद्धेः | एतानि च मलादीनि दीक्षाख्येन मन्त्रकरणेनेश्वरव्यापारेण निवर्तन्ते, यथा मन्त्रपूर्विकया क्रियया विषनिवृत्तिर्दृश्यते | अतश्च मन्त्राणामनुग्राहककरणत्वम्, विद्येश्वराणां तु परापराणामाचार्यवत् तत्कर्तृत्वमिति भेदः | किञ्चैत(दन्य?)दर्थमाराध्यमानं साधकेभ्यो भोगाभिलाषिभ्यो विविधाः सिद्धीः प्रयच्छति | यदुक्तं रौरवे (रौरवे नोपलभ्यते वचनमेतदिति म० पा० वि० (पृ० २६, टि० ७) द्रष्टव्या |)- दीक्षापूता गणपतिगुरोर्मण्डले जन्मवन्तः सिद्धा मन्त्रैस्तरुणदिनकृन्मण्डलोद्भासिदेहाः | भुक्त्वा भोगान् सुचिरममरस्त्रीनिकायैरुपेताः स्रस्तोत्कण्ठाः शिवपदपरैश्वर्यभाजो भवन्ति || इति || ३५ || ननु दीक्षया बन्धनिवृत्तिरात्मनो जातेति कथमवगम्यते ? अत आह- शुद्धिं व्रजति तुलायां दीक्षातो ब्रह्म(ह?हे)त्यतो मुख्यात् | प्रत्ययतो जानीयाद् बन्धनविगमं विषक्षयवत् || ३६ || इह यद्दीक्षायां महापातकयोगिनोऽप्यपेतपातकत्वं दृष्टम् | तथाहि श्रीमत्कालोत्तराद्युक्तवन्मन्त्रलब्धधटारोपणेन तस्य गौरवं परीक्ष्य पश्चादुद्घातमन्त्रोच्चारणादिपूर्वं तच्छुद्धिं कृत्वा पुनर्धटारोपणे तस्य लाघवमुत्पद्यमानं दृश्यते | एतच्चोपलक्षणं निर्बीजकरणादीनां प्रत्ययान्तराणाम् | ततोऽस्माद् दृश्यमानात् प्रत्ययादहितुण्डिकक्रियया विषहरणवद् दीक्षाख्यया क्रिययाःबन्धनापगमः सिद्ध इति ज्ञातव्यम् | तत एव च दृष्टार्थेषु विषभूतरसवादादिषु तदागमस्य फलवत्त्वं दृष्ट्वा तद्वदेवादृष्टस्यापि तच्छास्त्रस्य सत्यत्वमनुमीयत इति शिवस्य परमाप्तत्वं सिद्धम् | यदुक्तम्- (आयुर्वेदाच्च गणितादिति मृगेन्द्रवृत्ति(वि० १|१)स्थः पाठः |) विषाद्यभावसंदृष्टेर्मन्त्रवादाच्च सस्वरात् | रसोपनिषदाटोपादाप्तः स परिगृह्यते || इति || ३६ || नन्वेवं चेद् दीक्षयैव समस्तपापक्षयात् तत्क्षणमेव शरीरपातप्रसङ्गोऽत आह- एष्यत्फलकृतिदाहाद् दीक्षितमात्रस्य पतति नो पिण्डः | भवति च काचिद् दीक्षा या हन्त्यपि वर्तमानफलम् || ३७ || एष्यत्फलानामेव कर्मणां सद्योनिर्वाणदीक्षया दाहादारब्धकार्यस्य कर्मणोपस्थापितत्वाच्च दीक्षोत्तरकालं शरीरस्थितिरविरुद्धा | यदुक्तं किरणे- अनेकभविकं कर्म दग्धं बीजमिवाणुभिः | भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः || (वि० ६|१९) इति | अत्यन्तमलपरिपाके तु सद्योनिर्वाणदीक्षया तस्यापि क्षय इत्याह- भवति चेति | तत्रापि संस्कारवशात् किञ्चित्कालं स्थितिः संभवत्येव | यदाहुः- तिष्ठति संस्कारवशाच्चक्रभ्रमिवद् धृतशरीरः (सां० का० ६७) इति || ३७ || इदानीं भविष्यदपि संरुद्धमिति ज्ञापकोक्तं विशेषयति- कृतमपि फलाय न स्याद् दीक्षोपर्यूषरोप्तबीजमिव | बलवद्विशेषशास्त्रव्यतिकरजातं विहाय कर्मैकम् || ३८ || दीक्षोत्तरकालं विहितत्वेनानुष्ठीयमानमिष्टापूर्तादिरूपं कर्म दीक्षयैव रुद्धशक्तित्वान्न पुनः शरीरयोगादिफलजनकम् | विशेषशास्त्रसिद्धं साधकेनानुष्ठीयमानं तु मन्त्राराधनादि कर्म फलदमेव | यदुक्तं सूक्ष्मस्वायंभुवे- यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः | सिद्धिभाङ्मन्त्रसामर्थ्यात् इति | किञ्च, मुमुक्षोरपि विशेषशास्त्रविहिता[न]नुष्ठाने तन्निषिद्धानुष्ठाने चाकृतप्रायश्चित्तस्य प्रत्यवाययोगः श्रूयते- (समयोल्लङ्घनादिति तत्रत्यः पाठः |) आज्ञाविलङ्घनात् प्रोक्तं क्रव्यादत्वं शतं समाः (सा० का० २५|२) इति | तद्विहितत्वादेव च सामान्यशास्त्रसिद्धोऽपि वर्णाश्रमाचारोऽनुष्ठेय एव | यच्छ्रूयते- (मृगेन्द्रवृत्तिदीपिकायां (वि १|१) श्रीमद्भार्गववचनतया स्मर्यते |) इति वर्णाश्रमाचारान् मनसापि न लङ्घयेत् || यो यस्मिन्नाश्रमे तिष्ठन् प्राप्तो दीक्षां शिवात्मिकाम् | स तस्मिन्नेव संतिष्ठन् शिवधर्मं च पालयेत् || इति || ३८ || ननु समयोल्लङ्घनादिप्रत्यवाययुक्तस्याकृतप्रायश्चित्तस्य मोक्षो वा न वाऽत आह- तस्मादप्यकृतविधिः किञ्चित्कालं पिशाचवरराजः | भ्रान्त्या विमलात्माऽसौ व्रजति हि समतां परेशेन || ३९ || अत्र च दीक्षोत्तरकालं स्नानार्चनादिसमयानुष्ठानेनारब्धकार्यपाशक्षयः प्रत्यहमपचयेन क्रियते | ततः सापेक्षदीक्षाभाजां शक्तानां समयाचारविशेषोऽनुष्ठेयः | बालिशानां च निरपेक्षदीक्षाभाजां गुरुशुश्रूषाशिवार्चनादि यावच्छक्यमनुष्ठेयम्, अत एव तदनुष्ठानेन दीक्षानिष्पत्तिरनुमीयते | ततश्च यस्य मलपरिपाकबलेन तीव्रतरशक्तिपातनम्, न दीक्षावैकल्यम्, नापि समयोल्लङ्घनादि, तस्य देहपातान्तरं मोक्षः | यस्य तु मलपरिपाकमान्द्यान्मन्दतरादिशक्तिपातस्य दीक्षोत्तरं दैवान्मानुषात् प्रतिबलात् समयोल्लङ्घनं समुर्पद्यते, सोऽननुष्ठितसमयाचारोऽकृतप्रायश्चित्तविधिश्च पिशाचराजात्मकं समयोल्लङ्घनफलं काम्यफलमिवानुभूय पुनर्विमलात्मा परशिवसाम्यं मोक्षरूपं प्राप्नोति | यदुक्तम्- प्रायश्चित्तविशुद्धस्य मतिः शुद्धा प्रकीर्तिता इति | यस्य तु दृष्टार्थतया कृत्रिमगुरुभक्त्यादिना कृतदीक्षितस्य बुद्धिपूर्वमेव समयाननुष्ठानं न तस्य सा निष्पन्ना, गुरुश्च प्रायश्चित्ती भवति | यच्छ्रूयते- तत्र मिथ्याप्रयुक्ताऽणुः प्रायश्चित्ती भवेद् गुरुः (मृ० क्रि० ८|२४२) इति, आत्मदीक्षां गुरुः कुर्याद्व्यभिचारिणि दीक्षितः इति च || ३९ || इत्थं प्रासङ्गिकदीक्षाफलं प्रतिपाद्य प्रकृते मन्त्रानन्तरं मन्त्रेश्वरानाह- मन्त्रादिसर्गपूर्वं त्वष्टौ देवेन दारितावरणाः | अणवः कृतसर्वार्थज्ञानव्यापारसामर्थ्याः || ४० || मन्त्रादिसृष्टेः प्रागेवाष्टावणवो विज्ञानकलाः शिवेनापनीतमलाः सर्वविषयज्ञानक्रियाश्च सम्पन्नाः | यदुक्तं मृगेन्द्रे- तत्रादौ केवलाणूनां योग्यानां कुरुतेऽष्टकम् | वामादिशक्तिभिर्युक्तं सप्तकोटिपरिच्छदम् || (वि० ४|२) इति || ४० || के ते ? किञ्च कुर्वन्तीत्यत आह- तेऽनन्तेशप्रमुखाः पतिभावात् प्रेरयन्ति मन्त्रादीन् | सर्गस्थितिलयमुक्तीः कुर्वन्ति हरेच्छया नुन्नाः || ४१ || ते चानन्तसूक्ष्मशिवोत्तमैकनेत्रैकरुद्रत्रिमूर्तिश्रीकण्ठ-शिखण्डिसंज्ञा मन्त्रमहेश्वरत्वेन मन्त्रादीन् प्रेरयन्ति | किञ्च, सर्गादिचतुष्टयं तदविनाभूतं भोजनात्मकं तिरोभावं च कुर्वन्ति | यदुक्तं रौरवे- स्थितिसंरक्षणादानभावानुग्रहकारिणः (वि० १|१५) इति | पञ्चकृत्याधिकारित्वेऽपि नैषां शिवसाम्यमित्याह- हरेच्छया नुन्ना इति | अधिकारमलयोगेन प्रेर्यत्वाच्छिवापेक्षयैषां कलया न्यूनं कर्तृत्वम्, मन्त्रमन्त्रेश्वराणां तु ततोऽपि न्यूनम् | अत एवानन्तस्य सर्वोत्कृष्टत्वं श्रूयते- तेषामनन्तशक्तीनामनन्तः परमेश्वरः (रौ० वि० २|१२) इति | सर्वज्ञत्वं तु सर्वेषां समानमेव, विशेषाश्रवणात् | एषां च सर्वेषां महाप्रलयेऽधिकारविरामान्मुक्तिरित्युक्तं रौरवादौ- अनन्तः परमस्तेषां महतां चक्रवर्तिनाम् | विहितं सर्वकर्तृत्वकारणं परमं पदम् || (वि० २|१३) इति || ४१ || एवं चेश्वरतत्त्वाश्रिता मन्त्रमहेश्वरत्वेनोच्यन्त इत्याह- मन्त्रेशतत्त्वमेतत् परमणवोऽध्वद्वये च तत्पतयः | अभिधायकमनुलिङ्गा ह्यभिधानं नो निरर्थकं यस्मात् || ४२ || अध्वद्वयो शुद्धाशुद्धात्मके मननत्राणयोगिनोऽणवस्तत्पतयश्च मन्त्रेश्वरा मन्त्रमहेश्वरा उच्यन्ते | अनेनाशुद्धाध्ववर्तिनः साञ्जना अपि मन्त्राः संभवन्तीति दर्शयति | यदुक्तम्- (सार्धत्रिशतिकालोत्तरवृत्तिः (पृ० १४६, टि० ७) द्रष्टव्या |) अन्ये प्राधानिका मन्त्रा ब्रह्मविष्ण्वादयः परे | साञ्जनास्तेऽण्डमध्यस्थाः सात्त्वराजसतामसाः || इति | अतश्च वाचकशब्दानामचेतनत्वेन मननत्राणधर्मासंभवादभिधायकत्वेनोपचारान्मन्त्र-शब्दवाच्यत्वमित्याह- अभिधायकेति | घटपटाद्यभिधानशब्दो वाच्यार्थनिष्ठ एव दृश्यते, तस्मादनन्ताद्यभिधायकशब्दात्मकैर्मन्त्रैर्लिङ्गभूतैरभिधेयास्ते मन्त्रेश्वराद्यात्मानस्तज्जपादिना फलप्रदातारः सिद्धाः | एतेन शब्दमात्रमेव देवतेति ये मीमांसका मन्यन्ते ते प्रतिक्षिप्ताः, अचेतनस्य चेतनाधिष्ठानादेव कार्यकरत्वात् | अतश्च प्रतिमादाविव मन्त्रात्मके शब्देऽभिव्यक्ताः शिवादिवाच्यमन्त्रा एव फलदा इत्यवगन्तव्यम् || ४२ || अत्र च शब्दस्य रचनावत्त्वेन घटादिवत् कार्यत्वाच्छब्दार्थसंबन्धस्यापि नित्यत्वायोगेन साङ्केतिकत्वात् सर्वज्ञ एवेश्वरस्तत्सङ्केतकर्तेत्याह- विद्याविद्येशानां सामान्यविशेषधर्मविच्छम्भुः | मन्त्रानकरोद् यस्मादर्थविदभिधानकृद् दृष्टः || ४३ || यस्मात् पुत्राद्यर्थानां तत्तदर्थविदेव पित्रादिर्लोकेऽभिधानकृद् दृष्टः, तस्मान्मन्त्रेश्वरात्मनामपि वाचकान् मन्त्रान् शम्भुरेवाकार्षीत् | स एव तेषां सामान्यविशेषलक्षणज्ञो यतः | सामान्यलक्षणं तेषां नित्यत्वव्यापकत्वादि, विशेषलक्षणं तु मलावशेषतस्तत्तत्पदयोज्यत्वमित्यवगन्तव्यम् | अत्र मन्त्राद्यात्मकशब्दोपादानतया विद्येश्वरादीनां देहेन्द्रियाद्याधारभूतशुद्धाध्वभुवनोपादानत्वेन कुण्डलिन्याख्या महामाया सिद्धा | यदुक्तं रौरवादौ- मायोपरि महामाया (वि० ४|२८) इति | मृगेन्द्रेऽपि- शक्तेर्नादो भवेद् बिन्दुरक्षरं मातृका ततः (क्रि० १|२) इति, शुद्धाध्वन्यपि मायायाः परस्याः (मृ० वि० १३|५) इति च | एष च वेद्येश्वरसदाशिवादिशुद्धतत्त्वभेदस्तत्कारणभूतपरबिन्दु- सिद्धिप्रकारश्च मतङ्गादौ विस्तरेणोक्तः, साधितश्च रत्नत्रयोल्लेखिन्यामस्माभिरिति तत एवावधार्यम् || ४३ || अथैषां विद्येश्वरादीनां स्वस्वाधिष्ठेयोपाधिभेदभिन्नाभ्यां शक्तिशिवाभ्यां संहतिरूपत्वमागमेषु श्रूयत इत्याह- अणुशक्तिशंभ्युपक्षा विद्याविद्येश्वरेषु विद्वद्भिः | एकः शिवोऽविकारी तच्छक्तिश्चाप्यतो न योग्यौ तौ || ४४ || बहुधा स्थातुं यद्वा चैतन्यविनाकृतौ विकारित्वात् | अथ शम्भुरेक एव हि योगीव भवेदनेकमूर्तिस्थः || ४५ || गीतायां श्रूयते- अनुग्रहाय लोकस्य शिवो मन्त्र इति श्रुतिः | या त्वनुग्राहिका शक्तिः सा मन्त्रत्वमिहागता || इति, चतुर्विंशतिराख्याता मन्त्राणामीश्वराः पराः | आणवाः शाम्भवाः शाक्तास्तथान्या मन्त्रकोटयः || अण्डस्याधारका ह्येवं वीरभद्रपुरस्सराः | इति च | एषु चाणुपक्षस्य प्रोक्तवन्मुख्य एव भेदः | शम्भुशक्तिपक्षयोस्तु तदधिष्ठानवशादौपचारिक इत्याह- एकः शिव इति | अत्रैक एव शिवो जगत्कर्ता सर्वानुग्राहकश्च, तस्यैवानादिमुक्तत्वात् | उक्तं च रौरवादौ- शिवतत्त्वं परं ह्येकम् (वि० २|४) इति | श्रुतिरप्याह- एक एव रुद्रो न द्वितीयाय तस्थे (अथ० उ० २|७) इति | न चानेकेश्वरत्वे जगत्कार्यसिद्धिः, अनेककर्तृकाणां रथादीनामप्येकस्थपतीच्छानुवर्तनं विनाऽनुत्पत्तेः | यदाहुः- बहवो यत्र नेतारः सर्वे पण्डितमानिनः | सर्वे महत्त्वमिच्छन्ति तद्व्यक्तमवसीदति || इति | अनेन प्रवाहेश्वरपक्षोऽपि निरस्तः, ऐश्वर्यस्य स्वरूपव्यक्तिलाभात्मकत्वेन विनाशानुपपत्तेः | स चाविकारी, नित्यत्वाच्चेतनत्वाच्च | तच्छक्तिश्च तादृश्येव, तद्धर्मत्वात् | नहि नित्यस्यानित्यधर्मयोगः, धर्मधर्मिणोरव्यतिरेकेण धर्मिणोऽप्यनित्यत्वप्रसङ्गात् | अतस्तौ शक्तिशिवावनन्तादिभेदेन बहुधा स्थातुं युक्तौ | यद्वा तयोरनेकधाऽवस्थानमभ्युपगम्यते, तदा विकारित्वान्मायादिवदचेतनौ प्रसज्येते | तयोश्चाचेतनत्वं न युक्तम्, चेतनत्वेनैव श्रवणात्, अचेतनस्य चेतनाधिष्ठानं विना परिणामाद्ययोगाच्च | तस्मादौपचारिक एव तयोर्भेदः | यच्छ्रूयते- अधिकारी स भोगी च लयी स्यादुपचारतः इति, तथा- किन्तु यः पतिभेदोऽस्मिन् स शास्त्रे शक्तिभेदवत् | कृत्यभेदोपचारेण तद्भेदस्थानभेदजः || (मृ० वि० १३|१६४-१६५) इति च | अत्र पराशङ्कामाह- अथ शम्भुरिति || ४४-४५ || एकोऽपि शिवो योगिवदनेकदेहाधिष्ठानेन सदाशिवानन्तादिसंज्ञाभेदं लभत इति चेत्, तच्चायुक्तमित्याह- शक्तिर्मूर्तिस्तस्य हि सा चैका नाप्ययं मुख्यः | बहवः श्रेयोभाजः पुरुषास्तेषां च दृक्क्रियोत्कर्षः || ४६ || व्यञ्जकभेदोत्कर्षाद् दृष्टोऽतस्तद्भवो मुख्यः | यस्माच्छिवस्य निर्मलत्वेन परमार्थत्वेन बैन्दवादिदेहायोगाच्छक्तिरेव देहकार्यं कुर्वाणोपचारेण मूर्तिरुच्यते | सा चैकैवेत्युक्तम् | तस्मादीशानादिस्तद्भेदोऽपि न वास्तव एवेति योगिनामिव शरीरभेदोऽप्यस्य न मुख्य एव | ननु- पञ्चवक्त्रस्त्रिपञ्चदृक् इत्यादिना शिवस्यापि शरीरभेदः श्रूयते, सत्यम्, सोऽपि ध्यानार्थमेव श्रूयते | यदुक्तं पौष्करे- साधकस्य तु लक्ष्यार्थं तस्य रूपमुदाहृतम् इति | अणुपक्षभेदस्तु मुख्य एवेत्याह- बहवः श्रेय इति | अत्र हि भोगभेदाज्जननमरणभेदाच्च भोगमोक्षार्थं त्वेते श्रेयोभाजः पुरुषा बहव एव दृश्यन्ते | तेषां च व्यञ्जकशरीरेन्द्रियादिसंभवादुत्कर्षः, उत्तरोत्तरं ज्ञानाक्रियोत्कर्षश्च दृश्यते | तस्मादेषामपि विद्याविद्येश्वराणां प्रोक्तवच्छिवानुग्रहभेदेन तत्तदधिकारभेदाद् भुवनभेदाच्च तत्संभवो भेदो वास्तव एव || ४६ || ततश्च- कुरुतेऽर्थं शिवशक्ती तानधिरुह्येह तद्गताद् भेदात् || ४७ || भिन्ने इव लक्ष्येते गुणतो जातितश्च तन्नाम | यस्मात् तानधिष्ठाय शिवशक्ती पुरुषार्थं साधयतः, ततस्तद्भेदेन ते अपि भिन्ने इव भवतः | स च सशक्तिकः शिवस्तद्गतकृत्यभेदयोगेन गौण्या वृत्त्या तत्तत्संज्ञावान् भवति || ४७ || अतः शिव एव सर्वानुग्राहक इत्याह- नित्यस्वभावविमलः सर्वज्ञः सर्वकृच्चेशः || ४८ || अविहतशक्तिः शम्भुः सुहृदेकः सर्वपुरुषाणाम् | अत्र च शक्तिद्वितयं बोधध्यानादिसिद्धये गदितम् || ४९ || मूर्तिस्तद्वांश्चेति लेशादुक्तिश्च शक्तिशक्तिमतोः | अत्र शास्त्रे भोगमोक्षसिध्यर्थं ज्ञेयतया च सकलनिष्कलाख्यं शक्तिशक्तिमत्सज्ञं वा तत्त्वद्वयमुक्तम् | तयोश्च शक्तिशक्तिमतोर्मूर्तिमूर्तिमत्त्वेनोक्तिर्ज्ञेया | एतदुक्तं भवति- अधिकारावस्थायां कार्यभेदादष्टत्रिंशत्कलाभेदभिन्ना शक्तिरेवास्य मूर्तिः | तद्योगादेव चासौ सकलः प्रोच्यते | उपरतव्यापारतया युक्तो निष्कल इति || ४८-४९ || तां च- मूर्तिमधिष्ठाय हरः पुरुषाणां परहितैकदृक् शम्भुः || ५० || कुरुते तु भुक्तिमुक्ती रुद्धबलत्वात् स्वतोऽसमर्थानाम् | ध्येयाकाराभिव्यक्तां शक्तिरूपां मूर्तिमधिष्ठाय परहितैकदर्शी शम्भुर्मलावृतसामर्थ्यत्वेन स्वभोगमोक्षाय स्वयमसमर्थानां पुंसां भोगमोक्षौ कुरुते | स च पाशान् पशुभ्यो हरति, तांश्च भोगार्थं वा हरतीति हरः कथ्यते | यदुक्तम्- (नेत्रतन्त्रोद्योतेऽपि (१|३) उद्धृतो दृश्यतेऽयं श्लोकार्धः |) हरति पशुभ्यः पाशान् पुंसोऽप्यूर्ध्वं पदं ततस्तु हरः इति | प्रयोगश्चात्र- पुरुषा भोगार्थं मोक्षार्थं वा न स्वयं प्रवर्तितुं शक्ताः, बद्धत्वेनास्वतन्त्रत्वात्, मेषादिबद्धपशुवत् | पाशाश्च न पुरुषार्थं स्वयं प्रवर्तन्ते निवर्तन्ते वा, जडत्वाद्रज्ज्वादिवत् | अतो यस्तेषां भोगमोक्षहेतुः, सः शिव एव सिद्धः || ५० || अत्र च- विद्याविद्येशत्वं चापरमुक्तिः परेह शिवसमता || ५१ || विद्यादिपदानां परमुक्त्यपेक्षया प्रेर्यत्वेऽपि मायोत्तीर्णत्वान्निर्मलत्वाच्च न पुनः संसारयोग इत्यपरमुक्तित्वम् | शिवसाम्यं तु परमोक्ष एव || ५१ || ततश्च- सर्वव्याप्त्यर्हत्वान्नाम व्याप्स्यन्ति मन्त्राद्याः | पत्या व्यञ्जितशक्तिः पुरुषोऽतो जायतेऽस्य पतिसमता || ५२ || व्यञ्जकमनुकुर्वन्ती पूर्वं दृष्टा च शक्तिरणोः | प्राग् दृष्टत्वाच्छक्तेर्नो संक्रान्तिर्न जातिवच्चैका || ५३ || मन्त्रादयः परमुक्त्यर्हत्वान्मुक्तसंज्ञाभाज इत्यर्थः | ननु संसारावस्थायां पुरुषस्य किञ्चिज्ज्ञत्वदर्शनान्मुक्तावपि तादृश एवात आह- पत्या व्यञ्जितेति | सर्वज्ञेन सर्वसामर्थ्ययुक्तेन च शिवेन यतोऽसौ पुमान् व्यञ्जितशक्तिस्ततोऽस्य तत्साम्यं भवत्येव | तथाहि- संसारावस्थायामभिव्यञ्जकबलानुसारेण केषांचिदज्ञानादियोगोऽन्येषां च ज्ञानाद्युत्कर्षो दृश्यते | अत एवेश्वरगुणसंक्रान्तिमोक्षवादोऽप्ययुक्त इत्याह- प्राग्दृष्टत्वादिति | पुरुषे प्राज्ञे ज्ञानादिशक्तेर्दृष्टत्वादमूर्तस्य गुणसंक्रान्त्ययोगात् तत्संक्रान्तौ दृष्टादर्शनाच्च संक्रान्तिपक्षोऽयुक्तः | एष च संक्रान्त्यादिमोक्षनिरासप्रकारस्तत्रभवता आचार्येण- नोदाहरणसद्भावो गुणसंक्रान्तिसाधने || विज्ञानमुपदेशात्तु तादृगन्यत् प्रजायते | दीपान्तर समुत्पत्तिः प्रदीपादिन्धनान्तरे | अमूर्तस्य च संक्रान्तौ न लोको न परीक्षकः || (प० का० १३-२२) इत्यादिभिः कारिकाभिः श्रीमद्रौरववृत्तौ विस्तरेण साधितः | सा च शिवसाम्यरूपा मुक्तिर्न गोत्वादिजातिवदेका, अपि तु भिन्नैव प्रतिपुरुषगता, सादृश्यव्यतिरेकेण जातेरसंभवादित्यपि तत्रैव साधितम्, पुरुषाणां प्रोक्तवदनेकत्वादेकमोक्षे सर्वमोक्षप्रसङ्गाच्च || ५२-५३ || परमात्मलयाख्योऽपि मोक्षो न संभवतीत्याह- असकृत् पृथगुपलब्धाः पुरुषास्तेनापि न त्वैक्यम् | न च नाशः पुंशक्त्योर्मुक्तौ यस्मात् तयोरनादित्वम् || ५४ || मुक्ताविति वक्ष्यमाणेनान्वयः | मुक्तौ नैयायिकाद्युपगतसंविदभावोऽप्ययुक्तः, शक्तिशक्तिमतोश्चिद्रूपतया नित्यत्वेन च साधनादित्याह- न च नाश इति || ५४ || अत एवानादित्वेन नित्यत्वान्मोक्षनिमित्तभूतस्य शिवस्य शक्त्यात्मनस्तदैश्वर्यस्य वा नाशो न संभवति | ततश्च तन्नाशेन मुक्ते तदैश्वर्योर्पत्तिरिति यत्प्रवाहेश्वरवादिभिरुच्यते, तदयुक्तमित्याह- नापि च शिवस्य शक्तेरथवाऽभावो निमित्तस्य | एषां च- अपृथक्कृत्य गुणत्वादुपलब्धिः प्रोच्यते विशेषश्च || ५५ || शिवस्य मुक्तात्मनां च समानगुणत्वादपृथगेकरूपैवोपलब्धिः सर्वविषयो ज्ञानादिप्रकाशः प्रोच्यते | किं पुनरेभ्यः शिवस्य विशेष इत्याह- विशेष इति || ५५ || मुक्तेषु शिवाज्जातं माहात्म्यमनादिमध्यान्तम् | तेषु मुक्तात्मस्वनादिमध्यान्तमपि माहात्म्यं सर्वज्ञत्वसर्वकर्- तृत्वात्मकमनादिमलावृतत्त्वाच्छिवान्निमित्तभूतादभिव्यक्तम् | शिवस्त्वनादिसिद्धसर्वज्ञत्वसर्वकर्तृत्व[युक्त] इत्ययमस्यैषां च विशेषः || ५६ || इत्थं सकलवरप्रद आराध्यः शम्भुरेव तत्त्वविदा || ५६ || तस्मिंस्तुष्टे सिद्धिर्मुक्तिश्च परा भवेत् पुंसः | तदुक्तमथर्वशिखायाम्- शिव एको ध्येयः शिवङ्करः सर्वमन्यत् परित्यज्य (२ क०) इति | अतश्च सर्वानुग्राहकत्वात् सर्वकर्तृत्वाच्च तदागमस्य शैवाख्यस्यैव प्रामाण्यम्, आगमान्तराणां बौद्धादीनामन्येषामसर्वज्ञप्रणीतत्वेन परस्परविरोधात् | यदहुः (रत्नकीर्तिनिबन्धावल्यां सर्वज्ञसिद्धौ (पृ० ५) (कुमारिल) भट्टवचनत्वेनोद्धृतोऽयं श्लोक इति म० पा० वि० (पृ० ६७, टि० १८) द्रष्टव्यम् |)- सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा | अथोभावपि सर्वज्ञौ मतिभेदः कथं तयोः || इति | ननु शैवस्यापि आगमान्तरविरोधादप्रमाण्यम्, तन्न, विरोधाभावात् | तथाहि- सर्वाऽन्यागमप्राप्यस्थानप्रदर्शनपूर्वं तदनधिगतार्थप्रकाशकत्वादस्य प्रामाण्यमनिवार्यमेव | यदाहुः- अनधिगतार्थगन्तृ प्रमाणम् इति | किञ्च, (पूर्वतनी १२९ पृष्ठस्था तृतीया टिप्पणी द्रष्टव्या |) इति वर्णाश्रमाचारान् मनसापि न लङ्घयेत् इत्यादिभिर्वर्णाश्रमाचाराभ्यनुज्ञानेन वेदाविरोधाद् वेदवित्परिग्रहणाच्चास्य मतान्तराणामिव न पाषण्डित्वम् | तथा पुराणेतिहासयोः श्वेतोपमन्युप्रभृतीनां महर्षीणामत्रानुष्ठानं श्रूयते, महाभारते च नरनारायणयोरश्वत्थाम्नश्च | आभ्यां लिङ्गेऽर्चिते देवस्त्वयाऽर्चायां युगे युगे इति सुवर्णाक्षे च विष्णोस्तदाराधनात् प्रसादश्च | अपि च- नान्यत् प्रियतरो लोके मम कृष्ण भविष्यति इत्यादि रामायणे च | कार्तवीर्यादिस्मृतिषु च प्रतिष्ठापूर्वको धर्मः- पक्वेष्टकाचितं सम्यग् यः करोति शिवालयम् इत्यादि | सूत्रे च- मोक्षं विनिर्दिशेत् इति च | अथर्वशिरःसु श्वेताश्वतरादिषूपनिषत्सु लिङ्गाऽर्चनादि श्रूयते | ततो नास्याविगानता, न च विच्छिन्नमूलता, न च कैश्चिदेव परिग्रहः | अतस्तद्वाक्यं सर्वप्रमाणाबाधितत्वात् सर्वोत्कृष्टत्वाच्च ग्राह्यमेव | उक्तं च मोक्षकारिकासु- न चान्येन प्रमाणेन संरुद्धस्तस्य गोचरः | श्रोत्रियैरप्यतो ग्राह्यं तत्फलाधिकसाधनम् || (श्लो० १४६) इति || ५७ || अथ केनेदं प्रकरणं कृतमित्याह- इत्यवदत् तत्त्वानि तु सद्योज्योतिः सुवृत्तिकृत् || ५७ || || इति तत्त्वसंग्रहः समाप्तः || सुवृत्तिः सद्वृत्तिरिति रौरववृत्तेर्नाम, तत्कर्त्रेदं निर्मितमित्यर्थः || ५७ || श्रीमत्खेटकनन्दनार्ककिरणैः सद्वृत्तिवाक्यात्मकै- र्ध्वस्ताज्ञानतमश्चयेन गुरुणाऽधोरादिना शम्भुना | तत्त्वज्ञानबुभुत्सुभिर्बुधवरैः संप्रार्थितेनादरात् तत्त्वानामतिसंग्रहस्य विवृतिर्लघ्वी स्फुटं निर्मिता || || इत्यघोरशिवाचार्यविरचिता तत्त्वसंग्रहटीका समाप्ता || ########### END OF FILE #######